नाभा॒ नाभिं᳚ न॒ आ द᳚दे॒ चक्षु᳚श्चि॒त्सूर्ये॒ सचा᳚ ।
क॒वेरप᳚त्य॒मा दु᳚हे ॥
क॒वेरप᳚त्य॒मा दु᳚हे ॥
पदपाठः (Word-by-word)
नाभा᳚ । नाभि᳚म् । नः॒ । आ । द॒दे॒ । चक्षुः᳚ । चि॒त् । सूर्ये᳚ । सचा᳚ ।
क॒वेः । अप᳚त्यम् । आ । दु॒हे॒ ॥
क॒वेः । अप᳚त्यम् । आ । दु॒हे॒ ॥
सायणभाष्यम् (Sayana Commentary)
नाभिं यज्ञस्य नाभिभूतं सोमं नोस्माकं नाभा नाभौ अहमाददे पिबामीत्यर्थः । पीतसोमानां अस्माकं चक्षुश्चित् चक्षुरपि सूर्ये सचा संगतं भवति । किंच कवेः क्रान्तकर्मणः सोमस्य अपत्यं अंशुं आदुहे आपूरयामि ॥ ८ ॥