आ॒पा॒नासो᳚ वि॒वस्व᳚तो॒ जन᳚न्त उ॒षसो॒ भग᳚म् ।
सूरा॒ अण्वं॒ वि त᳚न्वते ॥
सूरा॒ अण्वं॒ वि त᳚न्वते ॥
पदपाठः (Word-by-word)
आ॒पा॒नासः᳚ । वि॒वस्व᳚तः । जन᳚न्तः । उ॒षसः᳚ । भग᳚म् ।
सूराः᳚ । अण्व᳚म् । वि । त॒न्व॒ते॒ ॥
सूराः᳚ । अण्व᳚म् । वि । त॒न्व॒ते॒ ॥
सायणभाष्यम् (Sayana Commentary)
विवस्वत इन्द्रस्य आपानासः आपानभूता उषसोभगं जनन्तो जनयन्तः सूराः सरन्तः सोमाः अण्वं वितन्वते अभिषववेलायामुपरवेषु शब्दं कुर्वन्ति ॥ ५ ॥