श्रवणम्

9.10.4
परि᳚ सुवा॒नास॒ इन्द᳚वो॒ मदा᳚य ब॒र्हणा᳚ गि॒रा ।
सु॒ता अ᳚र्षन्ति॒ धार᳚या ॥
▶ पदपाठः (Word-by-word)
परि᳚ । सु॒वा॒नासः᳚ । इन्द᳚वः । मदा᳚य । ब॒र्हणा᳚ । गि॒रा ।
सु॒ताः । अ॒र्ष॒न्ति॒ । धार᳚या ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुवानासः सुवानाः अभिषूयमाणाः इन्दवः सोमाः बर्हणा महत्या गिरा स्तुतिरूपया वाचा सुताअभिषुताः सन्तोमदाय मदार्थं धारया पर्यर्षन्ति परितोगच्छन्ति ॥ ४ ॥