श्रवणम्

9.2.1
पव᳚स्व देव॒वीरति᳚ प॒वित्रं᳚ सोम॒ रंह्या᳚ ।
इन्द्र᳚मिन्दो॒ वृषा वि᳚श ॥
▶ पदपाठः (Word-by-word)
पव᳚स्व । दे॒व॒॑वीः । अति᳚ । प॒वित्र᳚म् । सो॒म॒ । रंह्या᳚ ।
इन्द्र᳚म् । इ॒न्दो॒ इति᳚ । वृषा᳚ । आ । वि॒श॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ह सोम देववीः देवकामस्त्वं रंह्या वेगेन पवित्रं यथा भवति तथा अतिपवस्व अतिक्षर । किंच हे इन्दो वृषा सेचकस्त्वं इन्द्रमाविश प्रविश ॥ १ ॥