श्रवणम्

9.2.2
आ व᳚च्यस्व॒ महि॒ प्सरो॒ वृषे᳚न्दो द्यु॒म्नव᳚त्तमः ।
आ योनिं᳚ धर्ण॒सिः स᳚दः ॥
▶ पदपाठः (Word-by-word)
आ । व॒च्य॒स्व॒ । महि᳚ । प्सरः᳚ । वृषा᳚ । इ॒न्दो॒ इति᳚ । द्यु॒म्नव᳚त्॑तमः ।
आ । योनि᳚म् । ध॒र्ण॒सिः । स॒दः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो सोम महि महान् वृषा कामानां वर्षको द्युम्रवत्तमो यशस्वितमो धर्णसिर्धर्तात्वं प्यरः पानीयं महु आवच्यस्व अस्मान् प्रत्यागमय । योनिं स्वकीयं स्थानमासदः आसीद च ॥ २ ॥