श्रवणम्

9.2.7
गिर᳚स्त इन्द॒ ओज᳚सा मर्मृ॒ज्यन्ते᳚ अप॒स्युवः᳚ ।
याभि॒र्मदा᳚य॒ शुम्भ᳚से ॥
▶ पदपाठः (Word-by-word)
गिरः᳚ । ते॒ । इ॒न्दो॒ इति᳚ । ओज᳚सा । म॒र्मृ॒ज्यन्ते᳚ । अ॒प॒स्युवः᳚ ।
याभिः᳚ । मदा᳚य । शुम्भ᳚से ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो ते तव ओजसा बलन अपस्युवः कर्मे च्छासंबन्धिन्यः तागिरः स्तुतयोमर्मृज्यन्ते शोध्यन्ते । याभिर्गीर्भिस्त्वं मदाय क्षरन् शुंभसे अलंक्रियसे ॥ ७ ॥