म॒हान्तं᳚ त्वा म॒हीरन्वापो᳚ अर्षन्ति॒ सिन्ध᳚वः ।
यद्गोभि᳚र्वासयि॒ष्यसे᳚ ॥
यद्गोभि᳚र्वासयि॒ष्यसे᳚ ॥
पदपाठः (Word-by-word)
म॒हान्त᳚म् । त्वा॒ । म॒हीः । अनु᳚ । आपः᳚ । अ॒र्ष॒न्ति॒ । सिन्ध᳚वः ।
यत् । गोभिः᳚ । वा॒स॒यि॒ष्यसे᳚ ॥
यत् । गोभिः᳚ । वा॒स॒यि॒ष्यसे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम त्वं यद्यदा यज्ञे गोभिः गोविकारैः पयोभिः वासयिष्यसे आच्छादयिष्यसे तत्तदा महान्तं त्वा त्वामनु प्रति सिन्धवः स्यन्दमानाः महीर्महत्यः आपःअर्षन्ति गच्छन्ति ॥ ४ ॥