श्रवणम्

9.2.10
गो॒षा इ᳚न्दो नृ॒षा अ᳚स्यश्व॒सा वा᳚ज॒सा उ॒त ।
आ॒त्मा य॒ज्ञस्य᳚ पू॒र्व्यः ॥
▶ पदपाठः (Word-by-word)
गो॒॑साः । इ॒न्दो॒ इति᳚ । नृ॒॑साः । अ॒सि॒ । अ॒श्व॒॑साः । वा॒ज॒॑साः । उ॒त ।
आ॒त्मा । य॒ज्ञस्य᳚ । पू॒र्व्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो यज्ञस्य पूर्व्यः प्रत्नः आत्मा आत्मभूतस्त्वं गोषाः अस्मभ्यं गवां दातासि भवसि । नृषाः पुत्राणां दाताचासि । अश्वसाः अश्वानां दाताचासि । उतापिच वाजसाः अन्नानां दाताचासि ॥ १० ॥