श्रवणम्

9.2.5
स॒मु॒द्रो अ॒प्सु मा᳚मृजे विष्ट॒म्भो ध॒रुणो᳚ दि॒वः ।
सोमः᳚ प॒वित्रे᳚ अस्म॒युः ॥
▶ पदपाठः (Word-by-word)
स॒मु॒द्रः । अ॒प्॑सु । म॒मृ॒जे॒ । वि॒ष्ट॒म्भः । ध॒रुणः᳚ । दि॒वः ।
सोमः᳚ । प॒वित्रे᳚ । अ॒स्म॒॑युः ॥
▶ सायणभाष्यम् (Sayana Commentary)

समुद्रः समुद्द्रवन्त्यस्माद्र्साइति समुद्रः विष्टंभोदिवः स्वर्गस्य धरुणोधारकश्च अस्मयुरस्मत्कामः सोमोप्सूदकेषु ममृजे मृज्यते पवित्रे अभिषिच्यतइत्यर्थः ॥ ५ ॥