अचि᳚क्रद॒द्वृषा॒ हरि᳚र्म॒हान्मि॒त्रो न द᳚र्श॒तः ।
सं सूर्ये᳚ण रोचते ॥
सं सूर्ये᳚ण रोचते ॥
पदपाठः (Word-by-word)
अचि᳚क्रदत् । वृषा᳚ । हरिः᳚ । म॒हान् । मि॒त्रः । न । द॒र्श॒तः ।
सम् । सूर्ये᳚ण । रो॒च॒ते॒ ॥
सम् । सूर्ये᳚ण । रो॒च॒ते॒ ॥
सायणभाष्यम् (Sayana Commentary)
वृषा कामानां वर्षको हरिर्हरितवर्णो महान् सर्वोत्तमो मित्रोन यथासखा तद्वत् दर्शतो दर्शनीयो योयंसोमः अचिक्रदत् शब्दंकरोति सोयंसोमः सूर्येणसह संरोचते दिवि प्रकाशते ॥ ६ ॥