श्रवणम्

9.2.3
अधु᳚क्षत प्रि॒यं मधु॒ धारा᳚ सु॒तस्य᳚ वे॒धसः᳚ ।
अ॒पो व᳚सिष्ट सु॒क्रतु᳚ः ॥
▶ पदपाठः (Word-by-word)
अधु᳚क्षत । प्रि॒यम् । मधु᳚ । धारा᳚ । सु॒तस्य᳚ । वे॒धसः᳚ ।
अ॒पः । व॒सि॒ष्ट॒ । सु॒॑क्रतुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुतस्याभिषुतस्य वेधसोभिलषितस्य विधातुर्यस्य सोमस्य धारा प्रियं प्रीतिकरं मधु अमृतं अधुक्षत दुग्धे सुक्रतुः शोभनकर्मा सोमः अपोव- सतीवरीर्वसिष्ट आच्छादयति ॥ ३ ॥