श्रवणम्

9.2.8
तं त्वा॒ मदा᳚य॒ घृष्व᳚य उ लोककृ॒त्नुमी᳚महे ।
तव॒ प्रश᳚स्तयो म॒हीः ॥
▶ पदपाठः (Word-by-word)
तम् । त्वा॒ । मदा᳚य । घृष्व᳚ये । ऊं॒ इति᳚ । लो॒क॒॑कृ॒त्नुम् । ई॒म॒हे॒ ।
तव᳚ । प्र॑श᳚स्तयः । म॒हीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम यस्य तव प्रशस्तयः प्रशंसाः महीर्महत्यः घृष्वये उ त्वत् प्रसादात् शत्रूणां धर्षणशीलाय यजमानायैव लोककृत्नुं उत्तमस्य लोकस्य कर्तारं तं त्वां सोमं मदाय ईमहे वयं याचामहे ॥ ८ ॥