श्रवणम्

9.68.1
प्र दे॒वमच्छा॒ मधु᳚मन्त॒ इन्द॒वो॑सि᳚ष्यदन्त॒ गाव॒ आ न धे॒नवः᳚ ।
ब॒र्हि॒षदो᳚ वच॒नाव᳚न्त॒ ऊध᳚भिः परि॒स्रुत᳚मु॒स्रिया᳚ नि॒र्णिजं᳚ धिरे ॥
▶ पदपाठः (Word-by-word)
प्र । दे॒वम् । अच्छ᳚ । मधु᳚॑मन्तः । इन्द᳚वः । असि᳚स्यदन्त । गावः᳚ । आ । न । धे॒नवः᳚ ।
ब॒र्हि॒॑सदः᳚ । व॒च॒ना॑व᳚न्तः । ऊध᳚॑भिः । प॒रि॒॑स्रुत᳚म् । उ॒स्रियाः᳚ । निः॒॑निज᳚म् । धि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मधुमन्तो मादकरससंयुक्ता इन्दवः सोमाः देवं द्योतमानं सोमात्मकमिद्रं अच्छ प्रति प्रा- सिष्यदन्त प्रस्यन्दन्ते ग्रहादिषु क्षरन्ति । स्यन्दतेर्लुङि चङि रूपम् । तत्रदृष्टान्तः—गावआनधेनवः पयस्विन्यः प्रीणयित्र्योगावोयथावत्संप्रतियांतिप्रस्रवन्ति तद्वत् । किंच बर्हिषदः बर्हिषि सीद- न्तः वचनावन्तः हंभारवादिशब्दवन्तः अस्रियाः गोनामैतत् तादृश्योगावः ऊधभिः पयोधारकैः स्वैः स्वैरूधभिः ताभ्यः परिस्रुतं परितःस्रवणशीलं निर्णिजं शुद्धं पयोभूतं सोमरसं धिरे दधिरे इंद्रार्थं धारयन्ति ॥ १ ॥