श्रवणम्

9.68.7 समानपद
त्वां मृ᳚जन्ति॒ दश॒ योष᳚णः सु॒तं सोम॒ ऋषि᳚भिर्म॒तिभि᳚र्धी॒तिभि᳚र्हि॒तम् ।
अव्यो॒ वारे᳚भिरु॒त दे॒वहू᳚तिभि॒र्नृभि᳚र्य॒तो वाज॒मा द᳚र्षि सा॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
त्वाम् । मृ॒ज॒न्ति॒ । दश᳚ । योष᳚णः । सु॒तम् । सो॒म॒ । ऋषि᳚॑भिः । म॒ति॑भिः᳚ । धी॒ति॑भिः᳚ । हि॒तम् ।
अव्यः᳚ । वारे᳚भिः । उ॒त । दे॒वहू᳚ति॑भिः । नृ॑भिः᳚ । य॒तः । वाज᳚म् । आ । द॒र्षि॒ । सा॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम योषणः द्वाभ्यांपाणिभ्यां विभज्योत्पन्ना दश दशसंख्याकाअंगुलयः । ऋषिभि- र्मधुच्छन्दः प्रभृतिभिः सुतमभिषुतं हितं पात्रेषु निहितं त्वा त्वां मतिभिः स्तुतिभिः धीतिभिः कर्मभिश्च अव्योवारेभिः अविवालैः पवित्रैः मृजन्ति शोधयन्ति । उतापिच देवहूतिभिः । देवा- ह्वनयुक्तैः नृभिः कर्मनेतृभिः ऋत्विग्भिः यतः गृहेषु संयमितः संगृहीतस्त्वं सातये दानाय वाजमन्नमादर्षि आविदारयसि विवृतंकरोषि स्तोतृभ्यः अन्नादिकं प्रयच्छसीतियावत् ॥ ७ ॥