श्रवणम्

9.68.3
वि यो म॒मे य॒म्या᳚ संय॒ती मदः᳚ साकं॒वृधा॒ पय᳚सा पिन्व॒दक्षि᳚ता ।
म॒ही अ᳚पा॒रे रज᳚सी वि॒वेवि᳚ददभि॒व्रज॒न्नक्षि᳚तं॒ पाज॒ आ द᳚दे ॥
▶ पदपाठः (Word-by-word)
वि । यः । म॒मे । य॒म्या᳚ । सं॒य॒ती इति᳚ स॒म्॑य॒ती । मदः᳚ । सा॒का॒म्॑वृधा᳚ । पय᳚सा । पि॒न्व॒त् । अक्षि᳚ता ।
म॒ही इति᳚ । अ॒पा॒रे इति᳚ । रज᳚सी॒ इति᳚ । वि॒॑वेवि᳚दत् । अ॒भि॒॑व्रज᳚न् । अक्षि᳚तम् । पाजः᳚ । आ । द॒दे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योमदः माद्यत्यनेनेति मदः सोमरसः यम्या युगलभूते संयती परस्परंसंगच्छमाने द्यावापृथि व्यौ विममे विशेषेणनिर्मितवान् ततः ते साकंवृधा सहैववर्धनशीले तथा अक्षिता अक्षीणे साम- र्थ्यवत्यौ यथा भविष्यतः तथा ससोमः पयसा पयोरूपेण स्वीयरसेन पिन्वदसिंचत् अवर्ध यदि- तियावत् । किंच मही महत्यौ अतएव अपारे पर्यंतरहिते रजसी द्यावापृथिवीनामैतत् ते द्यावा- पृथिव्यौ विवेविदत् विदज्ञाने यङ्लुकि शतरि रूपम् । अभ्यासस्वरः । इयंपृथिवी इयंद्यौरिति सर्वेषां विविच्य तेजसाप्रज्ञापयन् अभिव्रजन् अभितः सर्वातोगच्छन् सोमः अक्षितं अक्षीणं अवि नश्वरं पाजोबलं आददे स्वीकृतवान् अत्यन्तंबलवानभवदित्यर्थः ॥ ३ ॥