श्रवणम्

9.68.2
स रोरु᳚वद॒भि पूर्वा᳚ अचिक्रददुपा॒रुहः᳚ श्र॒थय᳚न्त्स्वादते॒ हरि᳚ः ।
ति॒रः प॒वित्रं᳚ परि॒यन्नु॒रु ज्रयो॒ नि शर्या᳚णि दधते दे॒व आ वर᳚म् ॥
▶ पदपाठः (Word-by-word)
सः । रोरु᳚वत् । अ॒भि । पूर्वाः᳚ । अ॒चि॒क्र॒द॒त् । उ॒प॒॑आ॒रुहः᳚ । श्र॒थय᳚न् । स्वा॒द॒ते॒ । हरिः᳚ ।
ति॒रः । प॒वित्र᳚म् । प॒रि॒॑यन् । उ॒रु । ज्रयः᳚ । नि । शर्या᳚णि । द॒ध॒ते॒ । दे॒वः । आ । वर᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

रोरुवत् कलशादिकंप्रति अत्यन्तं शब्दंकुर्वन् ससोमः पूर्वामुख्याः स्तोतॄणां स्तुतीः अभ्यचिक्र दत् अभिमुखं अध्वनयत् स्तुतयः साधीयस्यइति प्रतिध्वनिमंगीकारमकार्षीदित्यर्थः । किंच हरिः हरितवर्णः उपारुहः रोहतेस्ताच्छीलिकःक्विप् । उपारोहणशीलाः उर्ध्वप्रादुर्भवनशीला ओषधीः श्रथयन् अग्रे विश्लेषयन् स्वादते स्वादुकरोति ताः फलिनीःकुर्वन् स्वादुयुक्ता विदधातीत्यर्थः । तथा पवित्रं अविवालात्मकं दशापवित्रं तिरस्तिरस्कृत्य पात्राणि प्रति आत्मनःक्षरणकाले पवि- त्रं व्यवधायकं कृत्वा परियन् परितोगच्छन् सोमः उरु महान्तं ज्रयोवेगं करोति । ततः सशर्या- णि शॄहिंसायां हिंसितव्यानि यद्वा शरेण हंतव्यानि रक्षांसि निदधते निक्षिपति न्यक्करोति हिन- स्तीतियावत् । पश्चाद्देवोदीप्यमानः सोमः वरं वरणीयं धनं सोमं दातृभ्योयजमानेभ्यः आदधते आधारयति प्रयच्छतीत्यर्थः । दधातेर्लेट्यडागमे घोर्लोपोलेटिवेत्याकारलोपः ॥ २ ॥