प॒रि॒प्र॒यन्तं᳚ व॒य्यं᳚ सुषं॒सदं॒ सोमं᳚ मनी॒षा अ॒भ्य᳚नूषत॒ स्तुभः᳚ ।
यो धार᳚या॒ मधु᳚मा{4} ऊ॒र्मिणा᳚ दि॒व इय᳚र्ति॒ वाचं᳚ रयि॒षाळम᳚र्त्यः ॥
यो धार᳚या॒ मधु᳚मा{4} ऊ॒र्मिणा᳚ दि॒व इय᳚र्ति॒ वाचं᳚ रयि॒षाळम᳚र्त्यः ॥
पदपाठः (Word-by-word)
प॒रि॒॑प्र॒यन्त᳚म् । व॒य्य᳚म् । सु॒॑सं॒सद᳚म् । सोम᳚म् । म॒नी॒षाः । अ॒भि । अ॒नू॒ष॒त॒ । स्तुभः᳚ ।
यः । धार᳚या । मधु᳚॑मान् । ऊ॒र्मिणा᳚ । दि॒वः । इय᳚र्ति । वाच᳚म् । र॒यि॒षाट् । अम᳚र्त्यः ॥
यः । धार᳚या । मधु᳚॑मान् । ऊ॒र्मिणा᳚ । दि॒वः । इय᳚र्ति । वाच᳚म् । र॒यि॒षाट् । अम᳚र्त्यः ॥
सायणभाष्यम् (Sayana Commentary)
परिप्रयन्तं पात्राणिपरितः प्रगच्छन्तं वय्यं देवैः काम्यमानं सुषंसदं शोभनं संसदनं सोमं मनीषा मनसईशित्र्यः स्तुभः स्तुतयः अभ्यनूषत अभिष्टुवन्ति । वय्यं वीगत्यादिषु इत्यस्मात् वयंति भय्यप्रवय्येचछन्दसीति निपातितः अत्रानुपसर्गस्यापिनिपातनंभवति मधुमान् मदकर- रसवान् यः सोमः धारया स्वीयया ऊर्मिणा वसतीवर्याख्येनोदकेन सह दिवआकाशात् द्रोणक- लशे आपतति रयिषाट् शत्रुधनानामभिभविता अमर्त्यः मनुष्यधर्मरहितः ससोमः वाचमियर्ति प्रेरयति तदाहि स्तोतारः स्तुवन्तीति उच्यन्ते ॥ ८ ॥