सं दक्षे᳚ण॒ मन᳚सा जायते क॒विरृ॒तस्य॒ गर्भो॒ निहि᳚तो य॒मा प॒रः ।
यूना᳚ ह॒ सन्ता᳚ प्रथ॒मं वि ज᳚ज्ञतु॒र्गुहा᳚ हि॒तं जनि᳚म॒ नेम॒मुद्य᳚तम् ॥
यूना᳚ ह॒ सन्ता᳚ प्रथ॒मं वि ज᳚ज्ञतु॒र्गुहा᳚ हि॒तं जनि᳚म॒ नेम॒मुद्य᳚तम् ॥
पदपाठः (Word-by-word)
सम् । दक्षे᳚ण । मन᳚सा । जा॒य॒ते॒ । क॒विः । ऋ॒तस्य᳚ । गर्भः᳚ । नि॑हि᳚तः । य॒मा । प॒रः ।
यूना᳚ । ह॒ । सन्ता᳚ । प्र॒थ॒मम् । वि । ज॒ज्ञ॒तुः॒ । गुहा᳚ । हि॒तम् । जनि᳚म । नेम᳚म् । उत्॑य᳚तम् ॥
यूना᳚ । ह॒ । सन्ता᳚ । प्र॒थ॒मम् । वि । ज॒ज्ञ॒तुः॒ । गुहा᳚ । हि॒तम् । जनि᳚म । नेम᳚म् । उत्॑य᳚तम् ॥
सायणभाष्यम् (Sayana Commentary)
प्रसंगात्सोमसूर्ययोराविर्भावमाह । कविः दक्षेण प्रवृद्धेन मनसा सह संजायते पृथिव्याः सम्यक् जायते । तथा ऋतस्योदकस्येव गर्भो गर्भस्थानीयः । यद्वा सत्यस्य यज्ञस्य मध्ये गर्भः शब्दनीयः स्तुत्यः सएवसोमः परः परस्तादन्तरिक्षे यमोयमेन नियमेन देवैर्निहितः सः सू- र्याद्धि वृष्टिर्भवति तस्मात्सोमः सूर्यात्मकतयावस्थितइत्यर्थः । एवं यूना । हेत्यवधारणे । यु- वानावेव सन्तौ तौ प्रथमं जननकाले विजज्ञतुः अयंसोमोयंसूर्यइति विशेषेण ज्ञायते । तयो- श्चार्धं जनिम जन्म गुहा गुहायां हितं निहितं भवति । तयोर्नेममर्धंचोद्यतं प्रकाशितं भवति । दिवा सूर्यःप्रादुर्भवति रात्रौ चन्द्रमाइति ॥ ५ ॥