श्रवणम्

9.68.6 समानपद
म॒न्द्रस्य᳚ रू॒पं वि᳚विदुर्मनी॒षिणः᳚ श्ये॒नो यदन्धो॒ अभ᳚रत्परा॒वतः᳚ ।
तं म᳚र्जयन्त सु॒वृधं᳚ न॒दीष्वा{4} उ॒शन्त᳚मं॒शुं प᳚रि॒यन्त᳚मृ॒ग्मिय᳚म् ॥
▶ पदपाठः (Word-by-word)
म॒न्द्रस्य᳚ । रू॒पम् । वि॒वि॒दुः॒ । म॒नी॒षिणः᳚ । श्ये॒नः । यत् । अन्धः᳚ । अभ᳚रत् । प॒रा॒॑वतः᳚ ।
तम् । म॒र्ज॒य॒न्त॒ । सु॒॑वृध᳚म् । न॒दीषु᳚ । आ । उ॒शन्त᳚म् । अं॒शुम् । प॒रि॒॑यन्त᳚म् । ऋ॒ग्मिय᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मनीषिणः प्राज्ञा यष्टारः मंद्रस्य मदकरस्य रसस्य सोमस्य रूपं विविदुः जानन्ति यदन्धः यत्सोमलक्षणमन्नं श्येनो गायत्रीरूपः पक्षी परावतो दूरात् द्युलोकात् आभरद्भ्यजहार । हृग्र- होर्भश्छन्दसीति भकारः । तं तादृशं सुवृधं सुष्ठुवर्धमानं सुवर्धयितारंवा अंशुं सोमं नदीषु नद- मानासु वसतीवर्याख्यास्वप्सु आमर्जयन्त ऋत्विजः आशोधयन्ति अलंकुर्वन्तिवा । कीदृशं उशन्तं देवान् कामयमानं परियन्तं परितोगच्छन्तं ऋग्मियं ऋगर्हं स्तुत्यं सोममामर्जयन्ती- ति ॥ ६ ॥