श्रवणम्

9.68.10 समानपद
ए॒वा नः᳚ सोम परिषि॒च्यमा᳚नो॒ वयो॒ दध᳚च्चि॒त्रत᳚मं पवस्व ।
अ॒द्वे॒षे द्यावा᳚पृथि॒वी हु᳚वेम॒ देवा᳚ ध॒त्त र॒यिम॒स्मे सु॒वीर᳚म् ॥
▶ पदपाठः (Word-by-word)
ए॒व । नः॒ । सो॒म॒ । प॒रि॒॑सि॒च्यमा᳚नः । वयः᳚ । दध᳚त् । चि॒त्र॑त᳚मम् । प॒व॒स्व॒ ।
अ॒द्वे॒षे इति᳚ । द्यावा᳚पृथि॒वी इति᳚ । हु॒वे॒म॒ । देवाः᳚ । ध॒त्त । र॒यिम् । अ॒स्मे इति᳚ । सु॒॑वीर᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं प्रत्यक्षकृतः हे सोम दधत् प्रयच्छंस्त्वं परिषिच्यमानः परितोद्भिर्गोभिर्वासिच्यमा- नः एव एवं चित्रतमं नानाविधं चायनीयतमं वा वयोन्नं नोस्मभ्यं पवस्व प्रापय प्रयच्छे ति यावत् । किंच अद्वेषे द्वेषरहिते द्यावापृथिवी द्यावापृथिव्यौ हुवेम हविः प्रदानार्थं वय माह्वयेम । हेदेवाः यूयंच सुवीरम् । वीरः कर्मणि समर्थः पुत्रः । तादृशपुत्रोपेतं रयिं अस्मा सु धत्त निधत्त ॥ १० ॥

इषुर्नेतिदशर्चं द्वितीयं सूक्तं आंगिरसस्य हिरण्यस्तूपस्यार्षं पवमानसोमदेवताकम् । नवमी दशम्यौ त्रिष्टुभौ । शिष्टाजगत्यः । तथाचानुक्रान्तं—इषुर्नहिरण्यस्तूर्पोत्येत्रिष्टुभाविति । गतोवि नियोगः ।