पर्यू॒ षु प्र ध᳚न्व॒ वाज᳚सातये॒ परि᳚ वृ॒त्राणि᳚ स॒क्षणि᳚ः ।
द्वि॒षस्त॒रध्या᳚ ऋण॒या न᳚ ईयसे ॥
द्वि॒षस्त॒रध्या᳚ ऋण॒या न᳚ ईयसे ॥
पदपाठः (Word-by-word)
परि᳚ । ऊं॒ इति᳚ । सु । प्र । ध॒न्व॒ । वाज᳚॑सातये । परि᳚ । वृ॒त्राणि᳚ । स॒क्षणिः᳚ ।
द्वि॒षः । त॒रध्यै᳚ । ऋ॒ण॒॑याः । नः॒ । ई॒य॒से॒ ॥
द्वि॒षः । त॒रध्यै᳚ । ऋ॒ण॒॑याः । नः॒ । ई॒य॒से॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम सु सुष्ठु वाजसातये अस्मभ्यमन्नदानायैव परिप्रधन्व परितः प्रगच्छ । यद्वा वाजसातये अन्नलाभाय संग्रामं प्रगच्छ । किंच सक्षणिः सहनशीलस्त्वं वृत्राणि शत्रून्परि- गच्छ । तदेवोच्यते—नोस्माकं ऋणयाः ऋणानां यापयिता त्वं द्विषः शत्रून् तरध्यै तरीतुं हन्तुं ईयसे परिगच्छसि ॥ १ ॥