श्रवणम्

9.110.5
अ॒भ्य᳚भि॒ हि श्रव᳚सा त॒तर्दि॒थोत्सं॒ न कं चि᳚ज्जन॒पान॒मक्षि᳚तम् ।
शर्या᳚भि॒र्न भर᳚माणो॒ गभ᳚स्त्योः ॥
▶ पदपाठः (Word-by-word)
अ॒भि॑अ᳚भि । हि । श्रव᳚सा । त॒तर्दि᳚थ । उत्स᳚म् । न । कम् । चि॒त् । ज॒न॒॑पान᳚म् । अक्षि᳚तम् ।
शर्या᳚भिः । न । भर᳚माणः । गभ᳚स्त्योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं श्रवसान्नेन हेतुना अभ्यभि ततर्दिथ हि पवित्रमभितृणवानसि छिन्नवान- सि । तत्र दृष्टन्तद्वयं—उत्संन यथा कश्चित् जनपानं अस्मिन् जनाउदकं पिबन्ति तमक्षि- तं अक्षीणं कंचित् कंचन उत्सरणशीलं वाप्यादिकं अभितृणत्ति अथवा कश्चित् गभस्यो- र्बाह्वोः शर्याभिरंगुलीभीर्भरमाणउदकं संभरन् कंचिदभितृणत्ति तद्वत् ॥ ५ ॥