अनु॒ हि त्वा᳚ सु॒तं सो᳚म॒ मदा᳚मसि म॒हे स᳚मर्य॒राज्ये᳚ ।
वाजा{4}᳚ अ॒भि प᳚वमान॒ प्र गा᳚हसे ॥
वाजा{4}᳚ अ॒भि प᳚वमान॒ प्र गा᳚हसे ॥
पदपाठः (Word-by-word)
अनु᳚ । हि । त्वा॒ । सु॒तम् । सो॒म॒ । मदा᳚मसि । म॒हे । स॒म॒र्य॒॑राज्ये᳚ ।
वाजा᳚न् । अ॒भि । प॒व॒मा॒न॒ । प्र । गा॒ह॒से॒ ॥
वाजा᳚न् । अ॒भि । प॒व॒मा॒न॒ । प्र । गा॒ह॒से॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम सुतमभिषुतं त्वा त्वां वयमनुमदामसिहि अनुमदामः अनुक्रमेणाभिष्टुमः खलु । हे पवमानसोम सत्वं महे महति समर्यराज्ये महत् समनुष्यं त्वदीयं राज्यमनुपालयितुं वाजान् शत्रुबलान्यभिलक्ष्य प्रगाहसे प्रगच्छसि ॥ २ ॥