श्रवणम्

9.110.6
आदीं॒ के चि॒त्पश्य᳚मानास॒ आप्यं᳚ वसु॒रुचो᳚ दि॒व्या अ॒भ्य᳚नूषत ।
वारं॒ न दे॒वः स᳚वि॒ता व्यू᳚र्णुते ॥
▶ पदपाठः (Word-by-word)
आत् । ई॒म् । के । चि॒त् । पश्य᳚मानासः । आप्य᳚म् । व॒सु॒॑रुचः᳚ । दि॒व्याः । अ॒भि । अ॒नू॒ष॒त॒ ।
वार᳚म् । न । दे॒वः । स॒वि॒ता । वि । ऊ॒र्णु॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आदनन्तरं पश्यमानास एनं पश्यन्तोदिव्याः दिविभवाः वसुरुचोनामकेचित् आप्यं ब- न्धुं साधुं ईमेनं सोमं अभ्यनूषत अभ्यस्तुवन् । कस्मादनन्तरमिति उच्यते देवोद्योतमानः सविता सर्वस्य प्रेरकः सूर्यः वारं आवरकं अंधकारं नव्यूर्णुते नापगमयति तदा एनमस्तु- वन् सूर्योदयात् प्रागेवहि सोमं स्तुवन्ति खलु ॥ ६ ॥