श्रवणम्

9.110.7
त्वे सो᳚म प्रथ॒मा वृ॒क्तब᳚र्हिषो म॒हे वाजा᳚य॒ श्रव᳚से॒ धियं᳚ दधुः ।
स त्वं नो᳚ वीर वी॒र्या᳚य चोदय ॥
▶ पदपाठः (Word-by-word)
त्वे इति᳚ । सो॒म॒ । प्र॒थ॒माः । वृ॒क्त॑ब᳚र्हिषः । म॒हे । वाजा᳚य । श्रव᳚से । धिय᳚म् । द॒धुः॒ ।
सः । त्वम् । नः॒ । वी॒र॒ । वी॒र्या᳚य । चो॒द॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम प्रथमाः पुरातनाः यद्वा यष्टृत्वेन सर्वेषां जनानां मुख्याः वृक्तबर्हिषः वृक्तं छिन्नं बर्हिर्येर्यज्ञार्थमिति वृक्तबर्हिषोयजमानाः महे महते वाजाय बलाय श्रवसेन्नायच धियं बुद्धिं त्वे त्वयि दधुः निहितवन्तः । तस्मात् हे वीर समर्थ सोम सतादृशस्त्वं नोस्मानपि संग्रामे वीर्याय सामर्थ्याय चोदय प्रेरय यद्वा वीर्याय वीरपुत्रे भवाय सुखा- यास्मान् प्रेरय ॥ ७ ॥