श्रवणम्

9.110.12
स प᳚वस्व॒ सह᳚मानः पृत॒न्यून्त्सेध॒न्रक्षां॒स्यप᳚ दु॒र्गहा᳚णि ।
स्वा॒यु॒धः सा᳚स॒ह्वान्त्सो᳚म॒ शत्रू᳚न् ॥
▶ पदपाठः (Word-by-word)
सः । प॒व॒स्व॒ । सह᳚मानः । पृ॒त॒न्यून् । सेध᳚न् । रक्षां᳚सि । अप᳚ । दुः॒॑गहा᳚नि ।
सु॒॑आ॒यु॒धः । स॒स॒ह्वान् । सो॒म॒ । शत्रू᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम तादृशस्त्वं पवस्व किंकुर्वन् पृतन्यून् कव्यध्वरपृतनस्यर्चिलोपइति क्यचि पर- तोकारलोपः संग्रामकामान् शत्रून् सहमानोभिभवन् तथा दुर्गहाणि कैश्चिदगि दुर्गमानि रक्षांसि अपसेधन् अपगमयन् हिंसन् किंच स्वायुधः शोभनायुधः सन् शत्रून् सासह्वान् अभिभवन् अभितपन् पवस्व ॥ १२ ॥

अयारुचेति तृचमष्टमं सूक्तं परुच्छेपपुत्रस्य अनानताख्यस्यार्षं अत्यष्टिच्छन्दस्कं पव- मानसोमदेवताकम् । तथाचानुक्रम्यते—अयारुचातृचमनानतः पारुच्छेपिराप्यष्टमिति । गतो- विनियोगः ।