ए॒ष पु᳚ना॒नो मधु᳚मा{4} ऋ॒तावेन्द्रा॒येन्दु᳚ः पवते स्वा॒दुरू॒र्मिः ।
वा॒ज॒सनि᳚र्वरिवो॒विद्व᳚यो॒धाः ॥
वा॒ज॒सनि᳚र्वरिवो॒विद्व᳚यो॒धाः ॥
पदपाठः (Word-by-word)
ए॒षः । पु॒ना॒नः । मधु᳚॑मान् । ऋ॒त॑वा᳚ । इन्द्रा᳚य । इन्दुः᳚ । प॒व॒ते॒ । स्वा॒दुः । ऊ॒र्मिः ।
वा॒ज॒॑सनिः᳚ । व॒रि॒वः॒॑वित् । व॒यः॒॑धाः ॥
वा॒ज॒॑सनिः᳚ । व॒रि॒वः॒॑वित् । व॒यः॒॑धाः ॥
सायणभाष्यम् (Sayana Commentary)
पुनानः पूयमानः मधुमान् माधुर्योपेतः ऋतावा ऋतवान् यज्ञवान् इंदुः क्षरणशीलः स्वादुः स्वादुकरः ऊर्मिः एषरसधारासंघः इन्द्रायेन्द्रार्थं पवते क्षरति । कीदृशः वाजसनिः अन्नस्य दाता वरिवोवित् धनस्य लंभकः वयोधाः आयुषोदाता ॥ ११ ॥