श्रवणम्

9.110.10
सोमः᳚ पुना॒नो अ॒व्यये॒ वारे॒ शिशु॒र्न क्रीळ॒न्पव᳚मानो अक्षाः ।
स॒हस्र᳚धारः श॒तवा᳚ज॒ इन्दु᳚ः ॥
▶ पदपाठः (Word-by-word)
सोमः᳚ । पु॒ना॒नः । अ॒व्यये᳚ । वारे᳚ । शिशुः᳚ । न । क्रीळ᳚न् । पव᳚मानः । अ॒क्षा॒रिति᳚ ।
स॒हस्र᳚॑धारः । श॒त॑वा᳚जः । इन्दुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुनानः पूयमानः पवमानः पूतः सोमः अव्यये अविमये वारे वाले पवित्रे शिशुर्न शिशुरिव क्रीळन् इतस्ततः संक्रीडमानः सन् अक्षाः क्षरति । कीदृशः सहस्रधारः बहुधा- रायुक्तः शतवाजोबहुबलः इन्दुर्दीप्तः ॥ १० ॥