श्रवणम्

9.110.4
अजी᳚जनो अमृत॒ मर्त्ये॒ष्वा{4} ऋ॒तस्य॒ धर्म᳚न्न॒मृत᳚स्य॒ चारु᳚णः ।
सदा᳚सरो॒ वाज॒मच्छा॒ सनि᳚ष्यदत् ॥
▶ पदपाठः (Word-by-word)
अजी᳚जनः । अ॒मृ॒त॒ । मर्त्ये᳚षु । आ । ऋ॒तस्य᳚ । धर्म᳚न् । अ॒मृत᳚स्य । चारु᳚णः ।
सदा᳚ । अ॒स॒रः॒ । वाज᳚म् । अच्छ᳚ । सनि᳚स्यदत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अमृत मरणधर्मरहित सोम त्वं ऋतस्य सत्यभूतस्य चारुणः कल्याणस्य अमृत- स्योदकस्य धर्मन् धारके अन्तरिक्षे सूर्यमजीजनः किमर्थं मर्त्येष्वामनुष्येष्वभिमुखीभवना- य । किंच सनिष्यदत् संभजन् सत्वं वाजं अच्छ संग्राममभिलक्ष्य सदा असरः सरसि गच्छसि ॥ ४ ॥