दि॒वः पी॒यूषं᳚ पू॒र्व्यं यदु॒क्थ्यं᳚ म॒हो गा॒हाद्दि॒व आ निर᳚धुक्षत ।
इन्द्र᳚म॒भि जाय᳚मानं॒ सम᳚स्वरन् ॥
इन्द्र᳚म॒भि जाय᳚मानं॒ सम᳚स्वरन् ॥
पदपाठः (Word-by-word)
दि॒वः । पी॒यूष᳚म् । पू॒र्व्यम् । यत् । उ॒क्थ्य᳚म् । म॒हः । गा॒हात् । दि॒वः । आ । निः । अ॒धु॒क्ष॒त॒ ।
इन्द्र᳚म् । अ॒भि । जाय᳚मानम् । सम् । अ॒स्व॒र॒न् ॥
इन्द्र᳚म् । अ॒भि । जाय᳚मानम् । सम् । अ॒स्व॒र॒न् ॥
सायणभाष्यम् (Sayana Commentary)
दिवोद्युलोकात् तत्र स्थितैर्देवैः पीयूषं पातव्यं पूर्व्यं पूर्व्यं प्रत्नं यत्सोमरूपपमन्नं उक्थ्यं प्रशस्यमस्ति तं सोमं महो महतोगाहात् दिवोद्युलोकात् आनिराधुक्षत आभिमु- ख्येन निर्दुहन्ति । ततः दुग्धमिन्द्रं अभिलक्ष्य जायमानं तं सोमं समस्वरन् स्तोतारः संस्तुवन्ति ॥ ८ ॥