अजी᳚जनो॒ हि प᳚वमान॒ सूर्यं᳚ वि॒धारे॒ शक्म᳚ना॒ पयः᳚ ।
गोजी᳚रया॒ रंह᳚माण॒ः पुरं᳚ध्या ॥
गोजी᳚रया॒ रंह᳚माण॒ः पुरं᳚ध्या ॥
पदपाठः (Word-by-word)
अजी᳚जनः । हि । प॒व॒मा॒न॒ । सूर्य᳚म् । वि॒॑धारे᳚ । शक्म᳚ना । पयः᳚ ।
गो॑जी᳚रया । रंह᳚माणः । पुर᳚म्॑ध्या ॥
गो॑जी᳚रया । रंह᳚माणः । पुर᳚म्॑ध्या ॥
सायणभाष्यम् (Sayana Commentary)
हे पवमान सोम त्वं पयः पयसउदकस्य विधारे विधारके अन्तरिक्षे शक्मना समर्थेन बलेन सूर्यमजीजनोहि उत्पादितवान् भवसि खलु । कीदृशः गोजीरया स्तोतृभ्योगवां प्रेर- केण स्तोतॄणां प्रेरितपशुकेनेत्यर्थः । तादृशेन पुरंध्या बहुविधप्रज्ञानेन युक्तः रंहमाणःवेगं कुर्वाणस्त्वं सूर्यमजीजनः ॥ ३ ॥