इन्द्रा᳚सोमा॒ तप᳚तं॒ रक्ष᳚ उ॒ब्जतं॒ न्य᳚र्पयतं वृषणा तमो॒वृधः᳚ ।
परा᳚ शृणीतम॒चितो॒ न्यो᳚षतं ह॒तं नु॒देथां॒ नि शि᳚शीतम॒त्रिणः᳚ ॥
परा᳚ शृणीतम॒चितो॒ न्यो᳚षतं ह॒तं नु॒देथां॒ नि शि᳚शीतम॒त्रिणः᳚ ॥
पदपाठः (Word-by-word)
इन्द्रा᳚सोमा । तप᳚तम् । रक्षः᳚ । उ॒ब्जत᳚म् । नि । अ॒र्प॒य॒त॒म् । वृ॒ष॒णा॒ । त॒मः॒॑वृधः᳚ ।
परा᳚ । शृ॒णी॒त॒म् । अ॒चितः᳚ । नि । ओ॒ष॒त॒म् । ह॒तम् । नु॒देथा᳚म् । नि । शि॒शी॒त॒म् । अ॒त्रिणः᳚ ॥
परा᳚ । शृ॒णी॒त॒म् । अ॒चितः᳚ । नि । ओ॒ष॒त॒म् । ह॒तम् । नु॒देथा᳚म् । नि । शि॒शी॒त॒म् । अ॒त्रिणः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्रासोमौ इन्द्रश्च सोमश्च इन्द्रासोमौ देवताद्वंद्वेचेति पूर्वपदस्यानङ् आमन्त्रिताद्युदात्तत्वम् रक्षोरक्षांसि जातावेकवचनम् युवां तपतं सन्तापयतम् आमन्त्रितं पूर्वमविद्यमानवदिति अविद्यमानवत्त्वात् तपतमिति तिङन्तस्य निघाताभावः तथा उज्जतं हिंस्तं उज्जतिर्हिंसाकर्मा तिङ्परत्वान्निघाताभावः हे वृषणा वृषणौ कामानां वर्षितारौ न्यर्पयतं रक्षांसि नीचैष्ट्वं प्रापयतम् । तमोवृधः तमसा आवरकेण अन्धकारेण मायारूपेण वर्धमानान् तमसि रात्रौ वर्धमानान्वा अचितः ज्ञानरहितान् मूढान् राक्षसान् पराशृणीतम् पराङ्मुखा यथाभवंति तथा हिंस्तम् तथान्योषतं नितरां दहतम् उषदाहे हतं तान्मारयतम् नुदेथाम् अस्मत्तः हतांस्तान्प्रेरयेथां अत्रिणः अदनशीलांस्तान् राक्षसान् निशिशीतं नितरां तनुकुरुतम् ॥ १ ॥