श्रवणम्

7.104.23
मा नो॒ रक्षो᳚ अ॒भि न᳚ड्यातु॒माव᳚ता॒मपो᳚च्छतु मिथु॒ना या कि᳚मी॒दिना᳚ ।
पृ॒थि॒वी न॒ः पार्थि᳚वात्पा॒त्वंह᳚सो॒॑न्तरि᳚क्षं दि॒व्यात्पा᳚त्व॒स्मान् ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । रक्षः᳚ । अ॒भि । न॒ट् । या॒तु॒॑माव᳚ताम् । अप᳚ । उ॒च्छ॒तु॒ । मि॒थु॒ना । या । कि॒मी॒दिना᳚ ।
पृ॒थि॒वी । नः॒ । पार्थि᳚वात् । पा॒तु॒ । अंह᳚सः । अ॒न्तरि᳚क्षम् । दि॒व्यात् । पा॒तु॒ । अ॒स्मान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

रक्षोराक्षसजातिर्नोस्मान् माभिनट् माभिव्याप्नोतु नशतर्व्याप्तिकर्मणोलुङिमन्त्रेघसेतिच्लेर्लुक् नमाङ्योगइत्यडभावः यथा यातुमावतां यातनावतां राक्षसानां मिथुना मिथुनानि स्त्रीपुंसरूपाणि युगलानि अपोच्छतु उच्छीविवासे अपविवासयतु अपवर्जयतु या यानि मिथुनानि किमीदिना किमीदिनानि किमिदंकिमिदमिति जिघांसया वर्तमानानि भवन्ति अपिच पृथिवी प्रथितेयं भूमिश्च नोस्मान्पा- र्थिवात् पृथिव्याअन्तरिक्षस्य संबन्धिनः अंहसः पापात्पातु रक्षतु अन्तरिक्षंच दिव्यात् दिविभवात् पापात् अस्मान्पातु रक्षतु ॥ २३ ॥