श्रवणम्

7.104.17 समानपद
प्र या जिगा᳚ति ख॒र्गले᳚व॒ नक्त॒मप᳚ द्रु॒हा त॒न्वं१॒᳚ गूह᳚माना ।
व॒व्रा{4} अ᳚न॒न्ता{4} अव॒ सा प᳚दीष्ट॒ ग्रावा᳚णो घ्नन्तु र॒क्षस᳚ उप॒ब्दैः ॥
▶ पदपाठः (Word-by-word)
प्र । या । जिगा᳚ति । ख॒र्गला᳚॑इव । नक्त᳚म् । अप᳚ । द्रु॒हा । त॒न्व᳚म् । गूह᳚माना ।
व॒व्रान् । अ॒न॒न्तान् । अव᳚ । सा । प॒दी॒ष्ट॒ । ग्रावा᳚णः । घ्न॒न्तु॒ । र॒क्षसः᳚ । उ॒प॒ब्दैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

या राक्षसी नक्तं रात्रौ द्रुहा द्रोहेण युक्ता खर्गलेव उलूकीव प्रजिगाति प्रगच्छति किंकुर्वती तन्वं स्वकीयं शरीरं अपगूहमाना अपवृण्वती नप्रकाशयन्ती सा राक्षसी अनन्तान् अपर्यन्तान् वव्रान्गर्तान् अवपदीष्ट अवाङ्मुखीपततु ग्रावाणः सोमाभिषवार्थः पाषाणाश्च उपब्दैः अभिषवशब्दैः रक्षसोराक्षसान् घ्नन्तु हिंसन्तु ॥ १७ ॥