श्रवणम्

7.104.8 समानपद
यो मा॒ पाके᳚न॒ मन᳚सा॒ चर᳚न्तमभि॒चष्टे॒ अनृ᳚तेभि॒र्वचो᳚भिः ।
आप᳚ इव का॒शिना॒ संगृ᳚भीता॒ अस᳚न्न॒स्त्वास᳚त इन्द्र व॒क्ता ॥
▶ पदपाठः (Word-by-word)
यः । मा॒ । पाके᳚न । मन᳚सा । चर᳚न्तम् । अ॒भि॒॑चष्टे᳚ । अनृ᳚तेभिः । वचः᳚॑भिः ।
आपः᳚॑इव । का॒शिना᳚ । सम्॑गृ᳚भीताः । अस᳚न् । अ॒स्तु॒ । अस᳚तः । इ॒न्द्र॒ । व॒क्ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

पाकेन पक्वेन शुद्धेन मनसा चरन्तं वर्तमानं सत्यवादिनं योमां राक्षसः अनृतेभिरनृतैः असत्यैर्वचोभिर्वचनैः अभिचष्टे अभिशंसति मयि असत्यवचनमारोपयति हे इन्द्र काशिना मुष्टिना संगृभीताः सम्यक् गृहीताः आपइव यथा आपोविशीर्णाभवन्ति तथा असतः असत्यस्य वक्ता सराक्षसः असन्नस्तु अविद्यमानोभवतु नश्यत्वित्यर्थः ॥ ८ ॥