श्रवणम्

7.104.3
इन्द्रा᳚सोमा दु॒ष्कृतो᳚ व॒व्रे अ॒न्तर᳚नारम्भ॒णे तम᳚सि॒ प्र वि᳚ध्यतम् ।
यथा॒ नात॒ः पुन॒रेक᳚श्च॒नोदय॒त्तद्वा᳚मस्तु॒ सह᳚से मन्यु॒मच्छवः᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚सोमा । दुः॒॑कृतः᳚ । व॒व्रे । अ॒न्तः । अ॒ना॒र॒म्भ॒णे । तम᳚सि । प्र । वि॒ध्य॒त॒म् ।
यथा᳚ । न । अतः᳚ । पुनः᳚ । एकः᳚ । च॒न । उ॒त्॑अय᳚त् । तत् । वा॒म् । अ॒स्तु॒ । सह᳚से । म॒न्यु॒॑मत् । शवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रासोमौ दुष्कृतः दुष्कर्मकारिणो राक्षसान् वव्रे वारके अन्तर्मध्ये अनारंभणे आलंबनरहिते तमस्यन्धकारे प्रविध्यतं प्रवेश्य ताडयतम् यथा येनप्रकारेण एषां मध्ये एकश्चन एकोपि राक्षसः अतः अस्मात्तमसः पुनर्नोदयत् उद्गच्छेत् तथा विध्यतमित्यर्थः । एतेर्लेट्यडागमः इतश्चलोपइतीकारलोपः गुणायादेशौ । तत्प्रसिद्धम् मन्युमत् क्रोधयुक्तं वां युवयोः शवोबलं सहसे रक्षसामभि- भवनाय अस्तु भवतु ॥ ३ ॥