वि ति᳚ष्ठध्वं मरुतो वि॒क्ष्वि१॒᳚च्छत᳚ गृभा॒यत᳚ र॒क्षस॒ः सं पि᳚नष्टन ।
वयो॒ ये भू॒त्वी प॒तय᳚न्ति न॒क्तभि॒र्ये वा॒ रिपो᳚ दधि॒रे दे॒वे अ᳚ध्व॒रे ॥
वयो॒ ये भू॒त्वी प॒तय᳚न्ति न॒क्तभि॒र्ये वा॒ रिपो᳚ दधि॒रे दे॒वे अ᳚ध्व॒रे ॥
पदपाठः (Word-by-word)
वि । ति॒ष्ठ॒ध्व॒म् । म॒रु॒तः॒ । वि॒क्षु । इ॒च्छत᳚ । गृ॒भा॒यत᳚ । र॒क्षसः᳚ । सम् । पि॒न॒ष्ट॒न॒ ।
वयः᳚ । ये । भू॒त्वी । प॒तय᳚न्ति । न॒क्त॑भिः᳚ । ये । वा॒ । रिपः᳚ । द॒धि॒रे । दे॒वे । अ॒ध्व॒रे ॥
वयः᳚ । ये । भू॒त्वी । प॒तय᳚न्ति । न॒क्त॑भिः᳚ । ये । वा॒ । रिपः᳚ । द॒धि॒रे । दे॒वे । अ॒ध्व॒रे ॥
सायणभाष्यम् (Sayana Commentary)
हे मरुतोयूयं विक्षु प्रजासु वितिष्ठध्वं विविधं तिष्ठत तत्र गूढान् राक्षसान् हन्तुं इच्छत अन्विच्छत तदनन्तरं रक्षसस्तान् राक्षसान् गृभायत गृभ्णीत गृहीत्वाच संपिनष्टन चूर्णयत ये राक्षसावयः पक्षिणोभूत्वी भूत्वा नक्तभिः रात्रिभिः रात्रिषु पतयन्ति आगच्छन्ति येवा येच देवे दीप्ते अध्वरे यागे रिपोहिंसादधिरे विदधिरे तान् राक्षसान् संपिनष्टनेत्यन्वयः ॥ १८ ॥