इन्द्रा᳚सोमा व॒र्तय᳚तं दि॒वस्पर्य᳚ग्नित॒प्तेभि᳚र्यु॒वमश्म᳚हन्मभिः ।
तपु᳚र्वधेभिर॒जरे᳚भिर॒त्रिणो॒ नि पर्शा᳚ने विध्यतं॒ यन्तु᳚ निस्व॒रम् ॥
तपु᳚र्वधेभिर॒जरे᳚भिर॒त्रिणो॒ नि पर्शा᳚ने विध्यतं॒ यन्तु᳚ निस्व॒रम् ॥
पदपाठः (Word-by-word)
इन्द्रा᳚सोमा । व॒र्तय᳚तम् । दि॒वः । परि᳚ । अ॒ग्नि॒॑त॒प्तेभिः᳚ । यु॒वम् । अश्म᳚हन्म॑भिः ।
तपुः᳚॑वधेभिः । अ॒जरे᳚भिः । अ॒त्रिणः᳚ । नि । पर्शा᳚ने । वि॒ध्य॒त॒म् । यन्तु᳚ । नि॒॑स्व॒रम् ॥
तपुः᳚॑वधेभिः । अ॒जरे᳚भिः । अ॒त्रिणः᳚ । नि । पर्शा᳚ने । वि॒ध्य॒त॒म् । यन्तु᳚ । नि॒॑स्व॒रम् ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्रासोमौ दिवोन्तरिक्षात् परितः सर्वतः वर्तयतम् आयुधानि प्रेरयतम् युवं तौ युवां अग्नितप्तेभिः अग्निनासन्तप्तैः तपुर्वधेभिस्तापक- प्रहारैः अजरेभिर्जरारहितैः दृढैः अश्महन्मभिः अश्मसारभूतस्यायसोविकारैः हननसाधनैस्तैरायुधैः अत्रिणोराक्षसस्य पर्शानेपार्श्वस्थाने- निविध्यतं निहतम् ते च राक्षसाः निःस्वरं निःशब्दं यन्तु अपयन्तु निर्गच्छन्तु ॥ ५ ॥