इन्द्रा᳚सोमा॒ परि᳚ वां भूतु वि॒श्वत᳚ इ॒यं म॒तिः क॒क्ष्याश्वे᳚व वा॒जिना᳚ ।
यां वां॒ होत्रां᳚ परिहि॒नोमि᳚ मे॒धये॒मा ब्रह्मा᳚णि नृ॒पती᳚व जिन्वतम् ॥
यां वां॒ होत्रां᳚ परिहि॒नोमि᳚ मे॒धये॒मा ब्रह्मा᳚णि नृ॒पती᳚व जिन्वतम् ॥
पदपाठः (Word-by-word)
इन्द्रा᳚सोमा । परि᳚ । वा॒म् । भू॒तु॒ । वि॒श्वतः᳚ । इ॒यम् । म॒तिः । क॒क्ष्या᳚ । अश्वा᳚॑इव । वा॒जिना᳚ ।
याम् । वा॒म् । होत्रा᳚म् । प॒रि॒॑हि॒नोमि᳚ । मे॒धया᳚ । इ॒मा । ब्रह्मा᳚णि । नृ॒पती᳚ इ॒वेति᳚ नृ॒पती᳚॑इव । जि॒न्व॒त॒म् ॥
याम् । वा॒म् । होत्रा᳚म् । प॒रि॒॑हि॒नोमि᳚ । मे॒धया᳚ । इ॒मा । ब्रह्मा᳚णि । नृ॒पती᳚ इ॒वेति᳚ नृ॒पती᳚॑इव । जि॒न्व॒त॒म् ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्रासोमौ इयमस्माभिः क्रियमाणा मतिर्मननीया स्तुतिः वाजिना वाजिनौ बलवन्तौ वां युवां विश्वतः सर्वतः परिभूतु परिगृह्णातु व्याप्नोतु वा । तत्रदृष्टान्तः-कक्ष्या कक्षसंबन्धिनी रज्जुः अश्वेव यथा अश्वं परिगृह्णाति तद्वत् यां होत्रां वाचं वां युवाभ्यां मेधया परिहिनोमि प्रेरयामि सेयं मतिरिति संबन्धः । अपिच इमा इमान्यस्माभिः कृतानि ब्रह्माणि स्तोत्राणि नृपतीव यथा नृपतयोधनैः पूरयन्ति तथा जिन्वतं फलैः पूरयतम् ॥ ६ ॥