ये पा᳚कशं॒सं वि॒हर᳚न्त॒ एवै॒र्ये वा᳚ भ॒द्रं दू॒षय᳚न्ति स्व॒धाभि᳚ः ।
अह᳚ये वा॒ तान्प्र॒ददा᳚तु॒ सोम॒ आ वा᳚ दधातु॒ निरृ᳚तेरु॒पस्थे᳚ ॥
अह᳚ये वा॒ तान्प्र॒ददा᳚तु॒ सोम॒ आ वा᳚ दधातु॒ निरृ᳚तेरु॒पस्थे᳚ ॥
पदपाठः (Word-by-word)
ये । पा॒क॒॑शं॒सम् । वि॒॑हर᳚न्ते । एवैः᳚ । ये । वा॒ । भ॒द्रम् । दू॒षय᳚न्ति । स्व॒धा॑भिः᳚ ।
अह᳚ये । वा॒ । तान् । प्र॒॑ददा᳚तु । सोमः᳚ । आ । वा॒ । द॒धा॒तु॒ । निः॑ऋ᳚तेः । उ॒प॑स्थे᳚ ॥
अह᳚ये । वा॒ । तान् । प्र॒॑ददा᳚तु । सोमः᳚ । आ । वा॒ । द॒धा॒तु॒ । निः॑ऋ᳚तेः । उ॒प॑स्थे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
ये राक्षसाः पाकशंसं परिपक्ववचनं सत्यभाषिणं मां एवैः एतव्यैः प्राप्तव्यैः आत्मीयैः कामैर्हेतुभूतैः विहरन्ते विशेषेण हरन्ति उपक्षपयन्ति यथा कामं परिवदन्तीत्यर्थः येवा स्वधाभिर्बलैर्युक्ताः भद्रं कल्याणवर्तनं मां दूषयन्ति दुष्टं कुर्वन्ति तान्सर्वान्सोमः अहये वा सर्पाय वा प्रददातु । निरृतेः पापदेवतायाः उपस्थे उत्सङ्गे वा आदधातु प्रक्षिपतु ॥ ९ ॥