श्रवणम्

7.104.15
अ॒द्या मु᳚रीय॒ यदि᳚ यातु॒धानो॒ अस्मि॒ यदि॒ वायु᳚स्त॒तप॒ पूरु᳚षस्य ।
अधा॒ स वी॒रैर्द॒शभि॒र्वि यू᳚या॒ यो मा॒ मोघं॒ यातु᳚धा॒नेत्याह᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒द्य । मु॒री॒य॒ । यदि᳚ । या॒तु॒॑धानः᳚ । अस्मि᳚ । यदि᳚ । वा॒ । आयुः᳚ । त॒तप᳚ । पुरु᳚षस्य ।
अध᳚ । सः । वी॒रैः । द॒श॑भिः᳚ । वि । यू॒याः॒ । यः । मा॒ । मोघ᳚म् । यातु᳚॑धान । इति᳚ । आह᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयमपि शपथरूपैव यद्यहं वसिष्ठोयातुधानोराक्षसोस्मि अद्यास्मिन्नेव दिने मुरीय म्रिये अपि वा पुरुषस्य मनुष्यस्य आयुजींवितं यद्यहं राक्षसोभूत्वा ततप हिंसितवानस्मि तर्ह्यप्यहमद्य म्रियेइत्यन्वयः अध अथैवं स्यात् अहं वसिष्ठस्त्वं राक्षसइति तर्हि सत्वं दाशभिर्वीरैः पुत्रैः उपलक्षणमेतत् सर्वैन्धुजनैर्वियूयाः वियुक्तोभवेः योराक्षसोमामां मोघं मृषैव हे यातुधान हेराक्षसेति संबोध्य आह ॥ १५ ॥