प॒रः सो अ᳚स्तु त॒न्वा॒३॒᳚ तना᳚ च ति॒स्रः पृ᳚थि॒वीर॒धो अ᳚स्तु॒ विश्वा᳚ः ।
प्रति᳚ शुष्यतु॒ यशो᳚ अस्य देवा॒ यो नो॒ दिवा॒ दिप्स᳚ति॒ यश्च॒ नक्त᳚म् ॥
प्रति᳚ शुष्यतु॒ यशो᳚ अस्य देवा॒ यो नो॒ दिवा॒ दिप्स᳚ति॒ यश्च॒ नक्त᳚म् ॥
पदपाठः (Word-by-word)
प॒रः । सः । अ॒स्तु॒ । त॒न्वा᳚ । तना᳚ । च॒ । ति॒स्रः । पृ॒थि॒वीः । अ॒धः । अ॒स्तु॒ । विश्वाः᳚ ।
प्रति᳚ । शु॒ष्य॒तु॒ । यशः᳚ । अ॒स्य॒ । दे॒वाः॒ । यः । नः॒ । दिवा᳚ । दिप्स᳚ति । यः । च॒ । नक्त᳚म् ॥
प्रति᳚ । शु॒ष्य॒तु॒ । यशः᳚ । अ॒स्य॒ । दे॒वाः॒ । यः । नः॒ । दिवा᳚ । दिप्स᳚ति । यः । च॒ । नक्त᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
सराक्षसः तन्वा तनाच व्यत्ययेन तृतीया तन्वाः शरीरस्य तनयस्य च परःपरस्तात् अस्तु वर्तमानोभवतु उभाभ्यां वियुक्तोभवत्वित्यर्थः । विश्वा व्याप्तास्तिस्रः पृथिवीः त्रीन् लोकान् अधःअधोऽस्तु अधस्तात् भवतु लोकत्रयादपि प्रच्युतोभवत्वित्यर्थः । हे देवाः अस्य शत्रोः यशोन्नं कीर्तिर्वा प्रतिशुष्यतु योराक्षसोनोस्मान् दिवा अहनि दिप्सति जिघांसति यश्च नक्तं रात्रौ जिघांसति अस्योभयविधस्य यशः प्रतिशुष्यत्विति संबन्धः ॥ ११ ॥