इन्द्रा᳚सोमा व॒र्तय᳚तं दि॒वो व॒धं सं पृ᳚थि॒व्या अ॒घशं᳚साय॒ तर्ह᳚णम् ।
उत्त᳚क्षतं स्व॒र्यं१॒᳚ पर्व᳚तेभ्यो॒ येन॒ रक्षो᳚ वावृधा॒नं नि॒जूर्व᳚थः ॥
उत्त᳚क्षतं स्व॒र्यं१॒᳚ पर्व᳚तेभ्यो॒ येन॒ रक्षो᳚ वावृधा॒नं नि॒जूर्व᳚थः ॥
पदपाठः (Word-by-word)
इन्द्रा᳚सोमा । व॒र्तय᳚तम् । दि॒वः । व॒धम् । सम् । पृ॒थि॒व्याः । अ॒घ॑शं᳚साय । तर्ह᳚णम् ।
उत् । त॒क्ष॒त॒म् । स्व॒र्य᳚म् । पर्व᳚तेभ्यः । येन᳚ । रक्षः᳚ । व॒वृ॒धा॒नम् । नि॒॑जूर्व᳚थः ॥
उत् । त॒क्ष॒त॒म् । स्व॒र्य᳚म् । पर्व᳚तेभ्यः । येन᳚ । रक्षः᳚ । व॒वृ॒धा॒नम् । नि॒॑जूर्व᳚थः ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्रासोमौ दिवोन्तरिक्षात् द्युलोकात् वा वधं हननसाधनमायुधं संवर्तयतमुत्पादयतं प्रुथिव्याअस्मादपि लोकात्तर्हणं हिंसकमायुधं अघशंसाय अघशंसं अनर्थस्याशंसकं राक्षसं हन्तुमुत्पादयतम् तथा पर्ततेभ्यः पर्ववद्भोमेघेभ्यः सकाशात् स्वर्यं स्वृशब्दोपतापयोः उपतापकं अशनिं उत्तक्षतं उद्धतं कुरुतम् येनाशनिना वावृधानं वर्धमानं प्रवृद्धं वा रक्षोराक्षसं निजूर्वथः निहथः जुर्वी हिंसायाम् तमशनिम् उत्तक्षतमित्यर्थः ॥ ४ ॥