यदि᳚ वा॒हमनृ᳚तदेव॒ आस॒ मोघं᳚ वा दे॒वा{4} अ᳚प्यू॒हे अ᳚ग्ने ।
किम॒स्मभ्यं᳚ जातवेदो हृणीषे द्रोघ॒वाच᳚स्ते निरृ॒थं स᳚चन्ताम् ॥
किम॒स्मभ्यं᳚ जातवेदो हृणीषे द्रोघ॒वाच᳚स्ते निरृ॒थं स᳚चन्ताम् ॥
पदपाठः (Word-by-word)
यदि᳚ । वा॒ । अ॒हम् । अनृ᳚त॑देवः । आस᳚ । मोघ᳚म् । वा॒ । दे॒वान् । अ॒पि॒॑ऊ॒हे । अ॒ग्ने॒ ।
किम् । अ॒स्मभ्य᳚म् । जा॒त॒॑वे॒दः॒ । हृ॒णी॒षे॒ । द्रो॒घ॒॑वाचः᳚ । ते॒ । निः॒॑ऋ॒थम् । स॒च॒न्ता॒म् ॥
किम् । अ॒स्मभ्य᳚म् । जा॒त॒॑वे॒दः॒ । हृ॒णी॒षे॒ । द्रो॒घ॒॑वाचः᳚ । ते॒ । निः॒॑ऋ॒थम् । स॒च॒न्ता॒म् ॥
सायणभाष्यम् (Sayana Commentary)
यदिवा अहं अनृतदेवः अनृताअसत्यभूताः देवायस्य तादृशोयद्यहं आस अस्मि अथवा मोघं वा निष्फलं वा देवानप्यूहे उपगच्छामि अहं यदि उक्तरूपोस्मि हे अग्ने तर्हि मां बाधस्व नह्यहं तथाविधोस्मि एवंसति हे जातवेदः जातानां वेदितरग्ने अस्मभ्यं किंकारणं त्दृणीषे क्रुध्यसि तव क्रोधोस्मासु न जायतां इत्यर्थः । द्रोघवाचः अनृतवाचोराक्षसास्ते तव निरृथं निःपूर्वोर्तिंर्हिसायां वर्तते निःशेषेण अर्तिंहिंसां सचन्तां सेवन्ताम् ॥ १४ ॥