श्रवणम्

7.104.13
न वा उ॒ सोमो᳚ वृजि॒नं हि᳚नोति॒ न क्ष॒त्रियं᳚ मिथु॒या धा॒रय᳚न्तम् ।
हन्ति॒ रक्षो॒ हन्त्यास॒द्वद᳚न्तमु॒भाविन्द्र᳚स्य॒ प्रसि᳚तौ शयाते ॥
▶ पदपाठः (Word-by-word)
न । वै । ऊं॒ इति᳚ । सोमः᳚ । वृ॒जि॒नम् । हि॒नो॒ति॒ । न । क्ष॒त्रिय᳚म् । मि॒थु॒या । धा॒रय᳚न्तम् ।
हन्ति᳚ । रक्षः᳚ । हन्ति᳚ । अस᳚त् । वद᳚न्तम् । उ॒भौ । इन्द्र᳚स्य । प्र॑सि᳚तौ । श॒या॒ते॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृजिनं पापकारिणं राक्षसं सोमोदेवः नवाउ नखलु हिनोति प्रेरयति गच्छत्वमिति न मुंचति यथा क्षत्रियं क्षत्रं बलं तद्वन्तं मिथुया मिथ्याभूतं वचनं धारयन्तं बिभ्रतं असत्यवादिनं पुरुषं नच हिनोति नविसृजति अपितु रक्षोराक्षसं हन्ति असत् असत्यं वदन्तंच हन्ति हिनस्ति उभौ राक्षसावनृतवादिनौ तौ सोमेन हतौ इन्द्रस्य सम्बन्धिनि प्रसितौ बन्धने शयाते निवसतः । यद्वा इन्द्रस्येति तृतीयार्थे षष्ठी इन्द्रेणेश्वरेण सोमेन प्रसितौ बद्धौ षिञ् बन्धने अस्मात्कर्मणिनिष्ठा गतिरनन्तरइति गतेःप्रकृतिस्वरत्वम् ॥ १३ ॥