इन्द्र᳚ ज॒हि पुमां᳚सं यातु॒धान᳚मु॒त स्त्रियं᳚ मा॒यया॒ शाश᳚दानाम् ।
विग्री᳚वासो॒ मूर᳚देवा ऋदन्तु॒ मा ते दृ᳚श॒न्त्सूर्य᳚मु॒च्चर᳚न्तम् ॥
विग्री᳚वासो॒ मूर᳚देवा ऋदन्तु॒ मा ते दृ᳚श॒न्त्सूर्य᳚मु॒च्चर᳚न्तम् ॥
पदपाठः (Word-by-word)
इन्द्र᳚ । ज॒हि । पुमां᳚सम् । या॒तु॒॑धान᳚म् । उ॒त । स्त्रिय᳚म् । मा॒यया᳚ । शाश᳚दानाम् ।
वि॑ग्री᳚वासः । मूर᳚॑देवाः । ऋ॒द॒न्तु॒ । मा । ते । दृ॒श॒न् । सूर्य᳚म् । उ॒त्॑चर᳚न्तम् ॥
वि॑ग्री᳚वासः । मूर᳚॑देवाः । ऋ॒द॒न्तु॒ । मा । ते । दृ॒श॒न् । सूर्य᳚म् । उ॒त्॑चर᳚न्तम् ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र पुमांसं पुंरूपधारिणं यातुधानं राक्षसं जहि मारय । उतापिच मायया वञ्चनया शाशदानां हिंसन्तीं स्त्रियं राक्षसीं च जहि । अपिच मूरदेवाः मारणक्रीडाराक्षसाः विग्रीवासः विच्छिन्नग्रीवाः सन्तः क्रदन्तु नश्यन्तु ते तथाविधा राक्षसाः उच्चरन्तं उद्यन्तं सूर्यमादित्यं मादृशन् माद्राक्षुः ॥ २४ ॥