यो माया᳚तुं॒ यातु᳚धा॒नेत्याह॒ यो वा᳚ र॒क्षाः शुचि᳚र॒स्मीत्याह᳚ ।
इन्द्र॒स्तं ह᳚न्तु मह॒ता व॒धेन॒ विश्व᳚स्य ज॒न्तोर᳚ध॒मस्प᳚दीष्ट ॥
इन्द्र॒स्तं ह᳚न्तु मह॒ता व॒धेन॒ विश्व᳚स्य ज॒न्तोर᳚ध॒मस्प᳚दीष्ट ॥
पदपाठः (Word-by-word)
यः । मा॒ । अया᳚तुम् । यातु᳚॑धान । इति᳚ । आह᳚ । यः । वा॒ । र॒क्षाः । शुचिः᳚ । अ॒स्मि॒ । इति᳚ । आह᳚ ।
इन्द्रः᳚ । तम् । ह॒न्तु॒ । म॒ह॒ता । व॒धेन᳚ । विश्व᳚स्य । ज॒न्तोः । अ॒ध॒मः । प॒दी॒ष्ट॒ ॥
इन्द्रः᳚ । तम् । ह॒न्तु॒ । म॒ह॒ता । व॒धेन᳚ । विश्व᳚स्य । ज॒न्तोः । अ॒ध॒मः । प॒दी॒ष्ट॒ ॥
सायणभाष्यम् (Sayana Commentary)
योराक्षसः मामयातुं अराक्षसं सन्तं हे यातुधान हेराक्षसेत्याह ब्रूते योवा यश्च रक्षाः राक्षसः शुचिरस्मि शुद्धोभवामि न राक्षसोस्मीत्याह ब्रूते तमुभयविधं राक्षसं इन्द्रोमहता प्रौढेन वधेनायुधेन वज्रेण हन्तु हिनस्तु सच सर्वस्य विश्वस्य जन्तोर्जनस्य अधमोनिकृष्टः सन् पदी- ष्ट पततु ॥ १६ ॥