प्र व᳚र्तय दि॒वो अश्मा᳚नमिन्द्र॒ सोम᳚शितं मघव॒न्त्सं शि᳚शाधि ।
प्राक्ता॒दपा᳚क्तादध॒रादुद᳚क्ताद॒भि ज᳚हि र॒क्षस॒ः पर्व᳚तेन ॥
प्राक्ता॒दपा᳚क्तादध॒रादुद᳚क्ताद॒भि ज᳚हि र॒क्षस॒ः पर्व᳚तेन ॥
पदपाठः (Word-by-word)
प्र । व॒र्त॒य॒ । दि॒वः । अश्मा᳚नम् । इ॒न्द्र॒ । सोम᳚॑शितम् । म॒घ॒॑व॒न् । सम् । सि॒शा॒धि॒ ।
प्राक्ता᳚त् । अपा᳚क्तात् । अ॒ध॒रात् । उद᳚क्तात् । अ॒भि । ज॒हि॒ । र॒क्षसः᳚ । पर्व᳚तेन ॥
प्राक्ता᳚त् । अपा᳚क्तात् । अ॒ध॒रात् । उद᳚क्तात् । अ॒भि । ज॒हि॒ । र॒क्षसः᳚ । पर्व᳚तेन ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र दिवोन्तरिक्षात् अश्मानं अशनिं प्रवर्तय प्रेरय राक्षसान् हन्तुं तथा सोमशितं सोमेनतीक्ष्णीकृतं यजमानं हे मघवन् धनवन्निन्द्र संशिशाधि संस्कुरु । अपिच प्राक्तात् प्राच्याः अपाक्तात् प्रतीच्याः अधरात् अवाच्याः उदक्तात् उत्तरतः सर्वस्मादपि दिग्भागात् रक्षसोराक्षसान् पर्वतेन पर्ववता वज्रेण अभिजहि मारय ॥ १९ ॥