उलू᳚कयातुं शुशु॒लूक᳚यातुं ज॒हि श्वया᳚तुमु॒त कोक᳚यातुम् ।
सु॒प॒र्णया᳚तुमु॒त गृध्र᳚यातुं दृ॒षदे᳚व॒ प्र मृ᳚ण॒ रक्ष᳚ इन्द्र ॥
सु॒प॒र्णया᳚तुमु॒त गृध्र᳚यातुं दृ॒षदे᳚व॒ प्र मृ᳚ण॒ रक्ष᳚ इन्द्र ॥
पदपाठः (Word-by-word)
उलू᳚क॑यातुम् । शु॒शु॒लूक᳚॑यातुम् । ज॒हि । श्व॑या᳚तुम् । उ॒त । कोक᳚॑यातुम् ।
सु॒प॒र्ण॑या᳚तुम् । उ॒त । गृध्र᳚॑यातुम् । दृ॒षदा᳚॑इव । प्र । मृ॒ण॒ । रक्षः᳚ । इ॒न्द्र॒ ॥
सु॒प॒र्ण॑या᳚तुम् । उ॒त । गृध्र᳚॑यातुम् । दृ॒षदा᳚॑इव । प्र । मृ॒ण॒ । रक्षः᳚ । इ॒न्द्र॒ ॥
सायणभाष्यम् (Sayana Commentary)
उलूकयातुं उलूकैः परिकरभूतैः सहयातयति हिनस्तीति याति गच्छतीतिवा उलूकयातुः यद्वा उलूकरूपी यातीत्युलूकयातुः हे इन्द्र तादृशं राक्षसं जहि विनाशय । तथाच बृहद्देवतायामुक्तम्-उलूकयातुंजत्द्येतान् नानारूपान् निशाचरान् । स्त्रीपुंरूपांश्चतिर्यञ्चोजिघांसू- निद्रमेजहीति ॥ एवमुत्तरत्रापियोज्यम् शुशुलूकयातुं उलूकाद्विविधाः बृहदुलूकाः अल्पोलूकाश्चेति तत्र उलूकयातुमिति बृहदुलूकाभिप्रायेणोक्तं शिशुरल्पउलूकः शुशुलूकः तद्रूपेण वर्तमानं राक्षसं श्वयातुं श्वरूपेण वर्तमानं राक्षसं उतापिच कोकयातुं कोकश्च- क्रवाकः तद्रूपेण वर्तमानं राक्षसं सुपर्णयातुं सुपर्णः श्येनः तदाकारं यातुधानं उतापिच गृध्रयातुं गृध्ररूपं च यातुधानं एतान् सर्वान् ना- नाकारान् हे इन्द्र जहि किंबहुना दृषदेव पाषाणेनेव वज्रेण रक्षः राक्षसमात्रं प्रमृण मारय ॥ २२ ॥