इन्द्रो᳚ यातू॒नाम᳚भवत्पराश॒रो ह᳚वि॒र्मथी᳚नाम॒भ्या॒३॒᳚विवा᳚सताम् ।
अ॒भीदु᳚ श॒क्रः प᳚र॒शुर्यथा॒ वनं॒ पात्रे᳚व भि॒न्दन्त्स॒त ए᳚ति र॒क्षसः᳚ ॥
अ॒भीदु᳚ श॒क्रः प᳚र॒शुर्यथा॒ वनं॒ पात्रे᳚व भि॒न्दन्त्स॒त ए᳚ति र॒क्षसः᳚ ॥
पदपाठः (Word-by-word)
इन्द्रः᳚ । या॒तू॒नाम् । अ॒भ॒व॒त् । प॒रा॒॑श॒रः । ह॒विः॒॑मथी᳚नाम् । अ॒भि । आ॒॑विवा᳚सताम् ।
अ॒भि । इत् । ऊं॒ इति᳚ । श॒क्रः । प॒र॒शुः । यथा᳚ । वन᳚म् । पात्रा᳚॑इव । भि॒न्दन् । स॒तः । ए॒ति॒ । र॒क्षसः᳚ ॥
अ॒भि । इत् । ऊं॒ इति᳚ । श॒क्रः । प॒र॒शुः । यथा᳚ । वन᳚म् । पात्रा᳚॑इव । भि॒न्दन् । स॒तः । ए॒ति॒ । र॒क्षसः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
यातूनां हिंसकानां रक्षसां अयमिन्द्रः पराशरः पराशातयिता हिंसिता भवत् कीदृशीनां हविर्मथीनां हवींषि मथताम् अभिमुखं आविवासतां आगच्छताम् अपिचायं शक्रइन्द्रः वनं वृक्षजातं परशुर्यथा छिंदन् कुठारइव पात्रेव मृन्मयानि पात्राणि भिन्दन् मुद्गरइवच सतः प्राप्तनामैतत् तदाहयास्कः-तिरः सतइतिप्राप्तस्येति । प्राप्तान् रक्षसोराक्षसान् भिन्दन् हिंसन् अभ्येभिगच्छति इदूपूरणौ ॥ २१ ॥